|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.299. अध्यायः 299
Mahabharata - Vana Parva - Chapter Topics
अकस्माच्चक्षुर्लाभतुष्टनापि पुत्रानागमविषण्णेन द्युमत्सेनन तत्रतत्रतदन्वेषणम् ॥ 1 ॥ ऋषिगणेन शुभनिमित्तज्ञापनेन समाश्वासिते तस्मिन्सावित्र्यासह सत्यवता पितुराश्रमाभिगमनम् ॥ 2 ॥ मुनिगणाय सावित्र्या वने वृत्तवृत्तान्तनिवेदनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-299-0x(2800)(27489)
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः।
लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह ॥ 3-299-1(27490)
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभ ॥ 3-299-2(27491)
तावाश्रमान्नदीश्चैववनानि च सरांसि च।
तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः ॥ 3-299-3(27492)
श्रुत्वा शब्दं तु यं कंचिदुन्मुखौ सुतशङ्कया।
सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम् ॥ 3-299-4(27493)
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः।
कुशकणअटकविद्धाङ्गावुनमत्ताविव धावतः ॥ 3-299-5(27494)
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम् ॥ 3-299-6(27495)
तत्रभार्यासहायः स वृतो वृद्धैस्तपोधनैः।
आश्वासितोपि चित्रार्थैः पूर्वराजकथाश्रयैः ॥ 3-299-7(27496)
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया।
बाल्यवृत्तानि पुत्रस्य सावित्र्या दर्शनानि च।
शोकं जग्मतुरन्योन्यं स्मरन्तौ भृशदुःखितौ ॥ 3-299-8(27497)
हापुत्र हासाध्वि वधु क्वासिक्वासीत्यरोदताम्।
ब्राह्मणः सत्यवाक्येषामुवाचेदं तयोर्वचः ॥ 3-299-9(27498)
सुवर्चा उवाच। 3-299-10x(2801)
यथास्य भार्या सावित्री तपसा च दमेन च।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ 3-299-10(27499)
गौतम उवाच। 3-83-299x(2802)
वेदाः साङ्गा मयाऽधीतास्तपो मे संचितं महत्।
कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः ॥ 3-299-11(27500)
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे।
वायुभक्षोपवासश्च कृतोमे विधिवत्सदा ॥ 3-299-12(27501)
अनेन तपसा वेद्मि सर्वं परचीकीर्षितम्।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति ॥ 3-299-13(27502)
शिष्य उवाच। 3-299-14x(2803)
उपाध्यायस्य मे वक्राद्यथा वाक्यं विनिःसृतम्।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥ 3-299-14(27503)
ऋषय ऊचुः। 3-299-15x(2804)
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥ 3-299-15(27504)
भारद्वाज उवाच। 3-299-16x(2805)
यथाऽस्य भार्या सावित्री तपसा च दमेन च।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ 3-299-16(27505)
दाल्भ्या रउवाच। 3-299-17x(2806)
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्।
गताऽऽहारमकृत्वैव तथा जीवति सत्यवान् ॥ 3-299-17(27506)
आपस्तम्ब उवाच। 3-299-18x(2807)
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः।
पार्थिवीं चैववृद्धिं ते तथा जीवति सत्यवान् ॥ 3-299-18(27507)
धौम्य उवाच। 3-299-19x(2808)
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः।
दीर्घायुर्लक्षणोपेतस्तथा जीवति स्यवान् ॥ 3-299-19(27508)
मार्कण्डेय उवाच। 3-299-20x(2809)
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः।
तांस्तान्विगणयन्सर्वांस्ततः स्थिर इवाभवत् ॥ 3-299-20(27509)
ततो मुहूर्तात्सावित्री भर्त्रा सत्वता सह।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥ 3-299-21(27510)
`दृष्ट्वा चोत्पतिताः सर्वेहर्षं जग्मुश्च ते द्विजाः।
कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदतां' ॥ 3-299-22(27511)
ब्राह्मणा ऊचुः। 3-299-23x(2810)
पुत्रेण संगतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च।
सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते ॥ 3-299-23(27512)
समागमेन पुत्रस्य सावित्र्या दर्शनेन च।
चक्षुषश्चात्मनो लाभात्रिभिर्दिष्ठ्या विवर्धसे ॥ 3-299-24(27513)
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्रसंशयः।
भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति ॥ 3-299-25(27514)
मार्कण्डेय उवाच। 3-299-26x(2811)
ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि।
उपासांचक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥ 3-299-26(27515)
शैव्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः।
सर्वैस्तैरभ्यनुज्ञाता विशोका समुपाविशन् ॥ 3-299-27(27516)
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥ 3-299-28(27517)
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो।
विरात्रे चागतं कस्मात्कोनु बन्धस्तवाभवत् ॥ 3-299-29(27518)
संतापितः पिता माता वयं चैव नृपात्मज।
कस्मादिति न जानीमस्तत्सर्वं वक्तुमर्हिसि ॥ 3-299-30(27519)
सत्यवानुवाच। 3-299-31x(2812)
पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ 3-299-31(27520)
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये।
तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥ 3-299-32(27521)
सर्वेषामेव भवतां संतापो मा भवेदिति।
अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥ 3-299-33(27522)
गौतम उवाच। 3-299-34x(2813)
अकस्माच्चक्षुः प्राप्तिर्द्युमत्सेनस्य ते पितुः।
नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति ॥ 3-299-34(27523)
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥ 3-299-35(27524)
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम्।
रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥ 3-299-36(27525)
सावित्र्युवाच। 3-299-37x(2814)
एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः।
न हि किंचिद्रहस्यं मे श्रूयतां तथ्यमेव यत् ॥ 3-299-37(27526)
मृत्युर्मे पत्युराख्यातो नारदेन महात्मना।
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥ 3-299-38(27527)
सुप्तं चैनं साक्षादुपागच्छत्सकिंकरः।
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥ 3-299-39(27528)
अस्तौषं तमहं देवं सत्येन वचसा विभुम्।
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥ 3-299-40(27529)
चक्षुषी च स्वराज्यंच द्वौ वरौ श्वशुरस्य मे।
लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम् ॥ 3-299-41(27530)
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्।
भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम्। 3-299-42(27531)
एतत्सर्वं मयाऽऽख्यातं कारणं विस्तरण वः।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥ 3-299-43(27532)
ऋषय ऊचुः। 3-299-44x(2815)
निमज्ज्मानं व्यसनैरभिद्रुतं
कुलं नरन्द्रस्य तमोमये ह्रदे।
त्वया सुशीलव्रतपुण्यया कुलं
रसमुद्धृतं साध्वि पुनः कुलीनया ॥ 3-299-44(27533)
मार्कण्डेय उवाच। 3-299-45x(2816)
तथा प्रशस्य ह्यभिपूज्य चैव
वरस्त्रियं तामृषयः समागताः।
नरेन्द्रमामन्त्र्य सपुत्रभञ्जसा
शिवेन रजग्मुर्मुदिताः स्वमालयम् ॥ 3-299-45(27534)
इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि एकोनत्रिशततमोऽध्यायः ॥ 299 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-299-5 भिन्नौर्विदीर्णैः। परुषैः कर्कशैः ॥ 3-299-12 कुशलानि च यानि मे इति ध.पाठः ॥ 3-299-18 शान्तायां प्रसन्नायाम् ॥ 3-299-29 विरात्रे बहुरात्रे काले आगतं आगमनम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|